Sunday, April 25, 2010

देवभाषा संस्कृतम्

भाष्यते इति भाषा। भारते एव सहस्राधिकभाषाः सन्ति। तासु अति मधुरा देवभाषा संस्कृतम् एव। सा जगतः सर्वासां भाषानां माता च। एतत् कलियुगम् , अत्र सहायस्य स्मरणं जनाः न कुर्वन्ति। क्रृतघ्नाः मानवाः। संस्कृतस्य स्थितिरपि एवमेव अस्ति इदानीम् , सर्वाः अन्यभाषाः अपि संस्कृतम् अवलम्ब्य एव सन्ति। किन्तु ताः अथवा तासां भाषीयाः संस्कृतं न स्मरन्ति अपि।
भारतस्य सत्त्वमेव संस्कृतमस्ति। वेदेषु न केवलं अध्यात्मं , अपि तु ज्ञानभण्डारमेव अस्ति। ऋग्वेदस्य श्रीसूक्ते पुरुषसूक्ते च विद्युदुत्पदनस्य विवरणं वर्तते। अथर्ववेदे वेदगणितमस्ति।
वेदगणितं उपयुज्य गणितम् सुलभम् इति इदानीं जगति सर्वेपि जानन्ति। गायत्री मन्त्रस्य शक्तिः अपारा इति पाश्चात्य विज्ञानिनः एव संशोधितवन्तः। आयुर्वेदमपि संस्कृते एव अस्ति। संस्कृतस्य अल्पप्राण-महाप्राणस्य उच्चारम् यदि सम्यक् कुर्वन्ति तर्हि मानवरक्तपरिचलनव्यवस्था नूतना भवति!!! संस्कृतं सङ्गणकयन्त्रार्थे एव कृतमिव अस्ति इत्यपि संशोधनेन उक्तमस्ति। एतत् सर्वं ज्ञात्वा एव विदेशीयाः अपि संस्कृताध्ययनं कर्तुम् उत्सुकाः सन्ति, अध्ययनं कुर्वन्तः सन्ति अपि।
वयं सर्वे अपि शर्मण्यदेशं(Germany) जानीमः एव। तत्र सर्वे जनाः भारतम् संस्कृतं च इच्छन्ति। संस्कृताध्ययनार्थं विद्यालयाः वर्तन्ते तत्र। तत्र 30 प्रतिशत जनाः संस्कृतम् जानन्ति। भारते एकस्मिन् काले राष्ट्र्भाषा आसीत्, किन्तु  इदानीं पञ्चप्रतिशत जनाः जानन्ति सम्भाषणं कर्तुम्, विपर्यासम् पश्यन्तु।
इस्रेल् देशश्य "हीब्रू" भाषायाः पुनरुथ्थानमिव  संस्कृतस्यापि पुनर्जीवनं लभते इति आशयामः।
वदतु संस्कृतम्, जयतु भारतम्

5 ಪ್ರತಿಕ್ರಿಯೆಗಳು:

  1. Hmmm.. I don't know Sanskrit, but it is truely a very good attempt :)

    ReplyDelete
  2. धन्यवादाः भगिनी।

    ReplyDelete
  3. This comment has been removed by the author.

    ReplyDelete
  4. सम्यक् उक्तं भवता। संस्कृतविषये अद्य सर्वत्र अनासक्तिः दर्शिता।
    संस्कृतभाषायाः पुनरुत्थानार्थं संस्कृतज्ञैः अस्माभिः सर्वैः अवश्यं प्रयत्नं कर्तव्यम्।

    ReplyDelete
  5. धन्यवादाः। भवन्तं ज्ञातुमिच्छामि श्रीशैल महोदय। ।

    ReplyDelete